|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.44. अध्यायः 044
Mahabharata - Bhishma Parva - Chapter Topics
कुरुपाण्डवसेनयोर्युद्धारम्भः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-44-0x(4104)(40286)
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च।
के पूर्वं प्राहरंस्तत्र कुरवःक पाण्डवा नु किम् ॥ 6-44-1(40287)
सञ्जय उवाच। 6-44-2x(4105)
भ्रातृभिः सहितो राजन्पुत्रो दुःशासनस्तव।
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ 6-44-2(40288)
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः ।
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥ 6-44-3(40289)
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः ।
भेरीमृदङ्गमुरजा हयकुञ्जरनिःस्वनाः ॥ 6-44-4(40290)
उभयोःक सेनयोर्ह्यासंस्ततस्तेऽस्मान्समाद्रवन्।
वयं तान्प्रतिर्दन्तस्तदाऽऽसीत्तुमुलं महत् ॥ 6-44-5(40291)
महान्त्यनीकानि महासमुच्छ्रये
समागमे पाण्डवधार्तराष्ट्रयोः।
चकम्पिरे शङ्खमृदङ्गनिःस्वनैः
प्रकम्पितानीव वनानि वायुना ॥ 6-44-6(40292)
नरेन्द्र नागाश्वरताकुलाना-
मभ्यागतानामशिवे मुहूर्ते।
बभूव घोषस्तुमुलश्चमूनां
वातोद्धुतानामिव सागराणाम् ॥ 6-44-7(40293)
तस्मिन्समुत्थिते शब्दे तुमुले रोमहर्षणे।
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥ 6-44-8(40294)
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम्।
सिंहनादं च सैन्यानां भीससेनरवोऽभ्यभूत् ॥ 6-44-9(40295)
हयानां हेषमाणानामनीकेषु सहस्रशः ।
सर्वानभ्यभवच्चब्दान्भीमस्य नदतः स्वनः ॥ 6-44-10(40296)
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः ।
जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥ 6-44-11(40297)
वाहनानि च सर्वाणि शकृन्मूत्रं प्रमुस्रुवुः ।
शब्देन तस्य वीरस्य सिंहस्येवेतरेक मृगाः ॥ 6-44-12(40298)
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन्।
विभीषयंस्तव सुतान्भीमसेनः समभ्ययात् ॥ 6-44-13(40299)
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् ।
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥ 6-44-14(40300)
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः ।
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृपः ॥ 6-44-15(40301)
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥ 6-44-16(40302)
महाचापानि धुन्वन्तो मेघा इव सविद्युतः ।
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥ 6-44-17(40303)
अथ ते द्रौपदीपुत्राः सौभद्रश्च महारथः ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-44-18(40304)
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः ।
वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥ 6-44-19(40305)
तस्मिन्प्रथमसंग्रामे भीमज्यातलनिःस्वने।
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ 6-44-20(40306)
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ ।
निमित्तवेधिनां चैव शरानुत्सृजतां भृशम् ॥ 6-44-21(40307)
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा।
विनिश्चेरुः शरा दीप्ताज्योतींषीव नभस्तलात् ॥ 6-44-22(40308)
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत।
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥ 6-44-23(40309)
ततस्ते जातसंरम्भाः परस्परकृतागसः ।
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥ 6-44-24(40310)
कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले ।
शुशुभाते रणेऽतीव पटे चित्रार्पिते इव ॥ 6-44-25(40311)
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः ।
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥ 6-44-26(40312)
युधिष्ठिरेण चदिष्टाः पार्थिवास्ते सहस्रशः ।
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥ 6-44-27(40313)
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः ।
अन्तर्धीयत चादित्यः सैन्येन रजसा वृतः ॥ 6-44-28(40314)
प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि।
नात्र स्वेषां परेषां वा विशेषः समदृश्यत ॥ 6-44-29(40315)
तस्मिस्तु तुमुले युद्धे वर्तमाने महाभये।
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥ ॥ 6-44-30(40316)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-44-6 महान् समुच्छ्रयः संप्रहारो यत्र ॥ 6-44-9 अभ्यभूत् अभिभूतवान् ॥ 6-44-14 सोदर्याः राजानुजाः ॥ 6-44-21 निमित्तं लक्ष्यम् ॥ 6-44-25 पटे इति सप्तम्यन्तम् ॥ 6-44-28 सैन्येन सेनाभवेन ॥ 6-44-30 अति अतिक्रम्य ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|